Sunday, March 7, 2010

वेदान्त विषयकः कश्चन विचारः

(२५/०२/०९)
अद्य यद्यपि प्रतिपदिति अनध्ययने प्राप्ते वेदान्तेषु प्रवृत्तानां न कालादिनियमः । महावाक्यानि विचारयाम इत्यारभ्य ऋगादिवेदानामुपनिषद्भ्यः चितानिवाक्यानीहोदाह्रियन्ते । तत्र खलु महावाक्य चतुष्टयम्-
१. प्रज्ञानं ब्रह्म ।ऋ.वे.ऐ.उ. खं१ मं१।
२. अहं ब्रह्मास्मि ।य.वे.बृ.उ.अ१.ब्रा४.मं१।
३. तत्त्वमसि ।सा.वे.छा. उ.अ६.खं८.मं७।
४. अयमात्मा ब्रह्म । अ.वे.मां.उ.खं १,.१२ च।

यद्यपि वेदानामृग्यजुस्सामाथर्वणा इति गणनाक्रमे विद्यमानेऽपि उद्धृत महावाक्यानि साधकानुभवक्रमेण विपरिणम्येतव्यानीति मन्ये । तच्चेत्थम्-
१. प्रज्ञानं ब्रह्म -इतिबहिर्जिगमिषूणामिन्द्रियाणामन्तर्मुखीकरणम् । तच्च श्रवणसाध्यम् ।
२. अयमात्मा ब्रह्म - इत्यन्तर्गतानामिन्द्रियाणा पुनः आत्माभिमुखीकरणम् - तच्च मनन साध्यम् ।
३. तत्त्वमसि -इतीन्द्रियाणां-मनसः, बुद्धेश्च अन्तः करणानामपिनिधिध्यासनसाधिते लये प्राप्ते सविकल्प समाधौ स्थितौ,
४.अहं ब्रह्मास्मि- इति केवलानुभूति वाक्यंम्-अवाच्यम्-अकथनीयमनुभविभिरपि-अगम्यम्ञ्चान्यैरिति निर्विकल्प-समाधि स्थितिः।

इत्थञ्च प्रज्ञानं ब्रह्मेति श्रुतेरधिगम्य, अयमात्मा ब्रह्मेति श्रुतस्य मननाद्धारणाध्यानयोरिन्द्रियादिबुद्धिपर्यन्तमपि निधिध्यासनेन सविकल्पसमाधौ प्राप्ते, तत्त्वमसीत्त्यात्मसाक्षात्कारे पर्यवस्यति। आत्मनि निरन्तरे स्थीयमाने अहम्ब्रह्मास्मीत्यकथनीयावाच्यावेदनीया काचित्स्थितिरनुभूयते। एषा एव ब्राह्मीस्थितिरिति च स्मर्यते। सा च जीवन्मुक्तिरिति च नैरन्तर्ये। एतेन सिद्धञ्च अहं ब्रह्मास्मीति चानुभव वाक्यं न च यस्य कस्यापि दर्पमयी दम्भमयी वा उक्तिः। इति शम् ॥

No comments:

Post a Comment