Sunday, August 15, 2010

मस्तिष्कविषये वक्तव्यम् - द्वितीयो भागः(उत्तरः)

अस्मिन् लेखे वैज्ञानिकविषयः अनुवर्त्यते। पूर्वस्मिन् तापगतिशास्त्रं प्रास्तावि। प्रकृते मस्तिष्कं कथं तापगतिशास्त्रस्य मूलसिद्धन्तान् त्रोटयति, ततश्च तद्भिन्न: नूत्न एव राद्धान्तः कथं निरूपितः इल्या प्रिगोझीन् महोदयेन, कस्तावत्स सिद्धान्त इतिचेह विचार्यते।
अस्यैव लेखस्य पूर्वस्मिन्भागे कर्म-तापयोः मिथः परिवर्त्यतामुद्घोषयन् तागद्विसौ परिवर्त्यमानायाः शक्तेः किञ्चिन्नाशः प्रतिपादितः। तन्नाम, शक्त्यां कर्मरूपे परिवर्तितायां न कृत्स्नापिशक्तिः कर्मरूपं प्राप्नोति, किञ्चित् घर्षणादि क्रियासु विनश्यति। यावती शक्तिः व्ययते न तावत् कर्म सम्पद्यते। एतावन्मात्रमेव न । विज्ञानिनः व्यजानन् यन्न केवलं शक्त्यां कर्मरूपमापन्नायामनिवार्यतया नाशः सम्भवति, अपितु यन्त्रस्यापि गलनं भवतीति। पटुतमेनाऽपि लोहेन निर्मितेन यन्त्रेण गच्छ्ताकालेन विनष्टेन भाव्यमिति।

सामान्य जनानां भाषायां वक्तव्यं चेद्विश्वः विनाशोन्मुख एव । विश्वं महायन्त्रवत्पश्यन्तो वैज्ञानिकाः तमपि विनाशोन्मुखं प्रत्यपादयन्। अमुमेव भावं विशदयितुं तागद्विसोः प्रकारान्तरं नाम विश्वमनन्यगतिकतया, अपरावर्त्यरूपेण च वर्धमान नाशं व्युत्क्रमं चैति। इममेव वर्धमानव्युत्क्रमसूत्र नाम्ना वयं जानीमः ।
व्युत्क्रमस्तु यस्य कस्याऽपि श्लिष्टस्य यादृच्छिकतायाः परिमाणमिति निर्वक्तुं शक्यते। तथाहि-
श्लिष्टे न्यूनः व्युत्क्रमः => न्यूना तस्मिन् यादृच्छिकता <=> न्यूना यादृच्छिकता => अधिकः क्रमः => न्य़ूना यादृच्छिकता इति ज्ञायते।

यदि विश्वस्यैषा स्थिति: तर्हि कथमिह जीवोत्पत्तिरभूत्? परिणामो नाम सदा वर्धमान क्रमः सङ्कीर्णता च यथा- परमाणोः-अणवः, अणुभ्यो-अमायिनाम्लानि-ततः proteins - ततः पुनः कणाः- कणैरारभ्य समस्त जीवराशयः कथं जाताः? यतो हि जीवराशयः लभ्यन्त इति तु सत्यमित्यस्मभिर्दृश्यत एव, विश्वे तावत् व्युत्क्रमस्य क्षतिरित्येवावगन्तव्यं खलु ! जीवस्तु गच्छता कालेन वृद्धिमेव याति - विश्वे क्रमं वर्धयन् । अतः किमिदं तागद्विसोः विपर्यासः? आहोस्वित् व्यभिचारः ? मिथ्या? किमिह संभवति?

वैज्ञानिकाः दार्शनिकाश्च शतेभ्यः संवत्सरेभ्यः पूर्वादपि अमुमेव विषयं विचिन्त्याप्राप्तसमाधाना आसन्, यावत्पर्यन्तं इल्या प्रिगोझीन् महोदय अस्यास्समस्याया उत्तरं नाऽददत् । तच्च गणितशास्त्रीय रीत्या सम्यक् प्रतिपादितं निरूपितञ्चासीत्। सारांशतः सोऽवोचत् - क्रमः व्युत्क्रमान्नोत्पद्यते, किन्तु सत्यपि व्युत्क्रमे क्रमः जायत एव! जीवो नाम व्युत्क्रमज एव सः !!

प्रिगोझीन् महोदयः यदा छात्र आसीत् तदैव तस्मायेतत्स्फुरितं यद् तापगति शास्त्रस्य द्वितीयं सूत्रं केवलं संवृत श्लिष्टानि वर्णयति न तु विवृतानि । संवृत श्लिष्टानि परिसरेण साकं न पदार्थानां वा, शक्तेर्वा विनिमयं कुर्वन्ति। किन्तु विवृत श्लिष्टानां विषये तु एवं न। निरुक्तमेव विवृतश्लिष्टानि परिसराच्छक्तिं-पदार्थं च स्वीकुर्वन्तीति। अतः तेषां प्रक्रियास्थितौ मूलभूतपरिवर्तनानि अवश्यम्भावीनि।