Wednesday, March 31, 2010

नवानुसारिणे/~सारिण्यै वक्तव्यं किंचित्...

अद्य पुनरपश्यं, मम ’ब्लाग’ कयाचन/केनचन पाक्या नाम्न्या/नाम्ना वा अनुसर्यत इति। धन्यवादांश्चार्पयामि। स्वागतं पाक्यायै/ पाक्यस्वामिने ! अनुगृहीतोऽस्मि !
किमिति काश्चित् कठिनतरा भाषा उपयुज्यत इति वक्तव्यमेव। अस्ति काचित् पत्रिका संभाषण-सन्देशो नाम, या च संस्कृतभारत्या प्रकाश्यते । सा च पत्रिका व्यावहारिकीं संस्कृतभाषामुपयुङ्क्ते। कंचित्कालं तथा संस्कृतमभ्यस्य, तत अग्रे गन्तव्यं चेत् किं कर्तव्यम् ? एष प्रश्न उदेत्येव । संस्कृत भाषायाः वैशिष्ट्यं नाम "अत्यल्पेषु शब्देषु अतिशयेनाऽपि गंभीरविषय-प्रतिपादन सामर्थ्यम् । अन्यच्च, संस्कृत साहित्येषु शास्त्रेषु च बहवः विषयाः सन्ति ये च अधुनातनीन वैज्ञानिक दृष्ट्या परिशीलन योग्याः । एतान्विषयानधिकृत्य वक्तुमुचितम् । यदि शास्त्रीया-साहित्यिकी वा भाषाया प्रयोग अभ्यस्यते तर्हि नातिकालेन शिक्ष्यते संस्कृतमिति अलमतिविस्तरेण । एवमेव मम पितृष्वसेयेन संस्कृताभ्यासिनाप्युक्तम् । स च इदमिदानीमेव गैवाणीमभ्यस्तुं प्रवृत्तः । तथाऽपि तेनैवमुक्तम् ।

Sunday, March 7, 2010

वेदान्त विषयकः कश्चन विचारः

(२५/०२/०९)
अद्य यद्यपि प्रतिपदिति अनध्ययने प्राप्ते वेदान्तेषु प्रवृत्तानां न कालादिनियमः । महावाक्यानि विचारयाम इत्यारभ्य ऋगादिवेदानामुपनिषद्भ्यः चितानिवाक्यानीहोदाह्रियन्ते । तत्र खलु महावाक्य चतुष्टयम्-
१. प्रज्ञानं ब्रह्म ।ऋ.वे.ऐ.उ. खं१ मं१।
२. अहं ब्रह्मास्मि ।य.वे.बृ.उ.अ१.ब्रा४.मं१।
३. तत्त्वमसि ।सा.वे.छा. उ.अ६.खं८.मं७।
४. अयमात्मा ब्रह्म । अ.वे.मां.उ.खं १,.१२ च।

यद्यपि वेदानामृग्यजुस्सामाथर्वणा इति गणनाक्रमे विद्यमानेऽपि उद्धृत महावाक्यानि साधकानुभवक्रमेण विपरिणम्येतव्यानीति मन्ये । तच्चेत्थम्-
१. प्रज्ञानं ब्रह्म -इतिबहिर्जिगमिषूणामिन्द्रियाणामन्तर्मुखीकरणम् । तच्च श्रवणसाध्यम् ।
२. अयमात्मा ब्रह्म - इत्यन्तर्गतानामिन्द्रियाणा पुनः आत्माभिमुखीकरणम् - तच्च मनन साध्यम् ।
३. तत्त्वमसि -इतीन्द्रियाणां-मनसः, बुद्धेश्च अन्तः करणानामपिनिधिध्यासनसाधिते लये प्राप्ते सविकल्प समाधौ स्थितौ,
४.अहं ब्रह्मास्मि- इति केवलानुभूति वाक्यंम्-अवाच्यम्-अकथनीयमनुभविभिरपि-अगम्यम्ञ्चान्यैरिति निर्विकल्प-समाधि स्थितिः।

इत्थञ्च प्रज्ञानं ब्रह्मेति श्रुतेरधिगम्य, अयमात्मा ब्रह्मेति श्रुतस्य मननाद्धारणाध्यानयोरिन्द्रियादिबुद्धिपर्यन्तमपि निधिध्यासनेन सविकल्पसमाधौ प्राप्ते, तत्त्वमसीत्त्यात्मसाक्षात्कारे पर्यवस्यति। आत्मनि निरन्तरे स्थीयमाने अहम्ब्रह्मास्मीत्यकथनीयावाच्यावेदनीया काचित्स्थितिरनुभूयते। एषा एव ब्राह्मीस्थितिरिति च स्मर्यते। सा च जीवन्मुक्तिरिति च नैरन्तर्ये। एतेन सिद्धञ्च अहं ब्रह्मास्मीति चानुभव वाक्यं न च यस्य कस्यापि दर्पमयी दम्भमयी वा उक्तिः। इति शम् ॥

Saturday, March 6, 2010

अद्य लिख्यते

प्रसह्य संस्कृते लेखनाय एककूटसान्वयं सम्पादकं समपादयम् । इतः परमविच्छिन्नतया किमपि सङ्गत‍ं लेखनीयमेव। विपुलमस्ति मया वक्तुं वक्तव्यञ्च । किं सम्पत्स्यत एतत्सर्वमपि?

Thursday, March 4, 2010

ईश वन्दना

अगजाननपद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे ॥

शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥

वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् ।
पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम् ॥

गुरवे सर्वलोकानां भिषजे भवरोगिणाम्।
निधये सर्वविद्यानां, दक्षिणामूर्तये नम: ॥

शङ्करं शङ्कराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥

श्रुतिस्मृतिपुराणनामालयं करुणालयम् ।
नमामि भगवत्पाद-शङ्करं लोकशङ्करम् ॥

सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥

भारतीकरुणापात्रं भारतीपदभूषणम् ।
भारतीपदमारूढं भारतीतीर्थमाश्रये ॥