अस्मिन् लेखे भौतशास्त्र विषयः कश्चन प्रस्तूयते। शक्तिः द्रव्यं च तयोः मिथः क्रियाः इति च भौतशास्त्र विषयत्वेन स्वीक्रियते। शक्तेः बहूनि रूपाणि। प्रकाशः, शब्दः, तापः, विद्युच्छक्तिः, परमाणुशक्तिः, नाभिकीयशक्तिरिति मुख्यतः षड्रूपाणीति क्रियताम्।
तत्र सप्तादशतमे शतमाने तापं शक्तिरिति न जानन्ति स्म जनाः। तापोऽपि शक्तेः रूपमेवेति प्रयोगशतैर्ज्ञात्वा तद्विष्यक बोधं संस्थापयितुमिव सिद्धान्त: कृतः। स च तापगतिरिति शास्त्रनाम्ना प्रथते।
तत्र कानिचन साङ्केतिक निर्वचनानीष्टानि। भौत शास्त्रदृशा कर्म नाम किं? बलप्रयोगेन यदि स्थित्यन्तरप्राप्तिर्भवति तत्कर्म। विश्राम स्थितेः चलायमान स्थितिः तद्विरुद्धं वेति स्थिति परिवर्तनं लक्ष्यते। तथाहि घनस्थितेः द्रव्यस्य तरलत्व प्राप्तिः। यदि यः कोऽपि महद्भारमपि हस्तेन वा हस्ताभ्यां वा वहन्नेकत्रैव तिष्ठति स न किमपि कर्म करोतीति स्थितिः, भौतशास्त्र दृष्ट्या। तेन बल-स्थानान्तरणयोः(दूरयॊः) लब्धमेव भौतशास्त्र रीत्या कर्मेति गण्यते। ताप: तापमानं च भिन्ने । तापः शक्तेः रूपम् । तापमानं च कस्यचिदपि पिण्डस्य उष्णतायाः मानम्। अयं पिण्डः कियदुष्णः इति वक्तव्ये सङ्ख्यया सहोच्यमाने तापमानमुक्तं भवति ।
तापश्च कर्म च समे मिथः परिवर्तनीये इति तापगतिशास्त्र्स्य प्रथमं सूत्रम् (तागप्रसू:)
कोऽर्थः गम्यतेऽनेन? तापाख्याशक्तिः कर्म रूपे परिवर्त्यते, यथा बाष्पचालिते यन्त्रे,तद्वद्यन्त्रगत्यात्मकं कर्म च ताप रूपं धारयति, यथा यदा क्रकचेन दारुर्वा, महाक्रकचेन लौहखण्डो वा छिद्यते तदा घर्षणेन क्रकचे वा दारुलौहखण्डयोर्या उष्णता दृश्यते, सा च यान्त्रिक कर्मणः ताप रूपे परिवर्तनस्योदाहरणम् ।
तापः स्वतः उच्चतरात् स्थितेः नीचतर तापस्थितेर्दिशि प्रवहति - एवं तापगतिशास्त्रस्य द्वितीय सूत्रस्यैकं रूपम् (तागद्विसू) । प्रकारान्तरॆण, इदमेव कथनमेवमुच्यते- नीचतरतापस्थितेः, उच्चतर तापस्थितौ तापीयशक्तिं प्रापयितुं अनन्यगतिकतया यन्त्रसाहाय्यमिष्यते । यथा शीतयन्त्रस्थानां सस्यक्षीरादीनां नीचतापमानस्थित्यै्--नीचतापमाने स्थितानि सस्यादीनि बहुकालं सुष्ठुतिष्ठन्तीति कृत्वा- तत्रस्थ स्सङ्कोचनयन्त्र चालनं तदर्थशक्तिव्ययश्च। ----------
अस्यैव तागद्विसोः कथनान्तरं नाम - इह लोके सर्वाऽपि प्रक्रिया: अनवेक्षिताः विक्रममेष्यन्ति ।
यदि प्रक्रियासु इष्टः क्रम आनेतव्यः तर्हि तासामुपरि कर्म अनिवार्यतया कर्तव्यम्। अगच्छन् वैनतेयोऽपि पदमेकं न गच्छतीति वयं जानीमः, कर्मणि प्रवृत्तिरनिवार्येत्यप्यवगम्यते, परंन्तु, किमप्यकुर्वन् विश्वे सुस्थितिः नैवऽऽनेतुं शक्यत इति तापगतिशास्त्रोक्तिस्तु विचारणीयो विषयः।
किं सर्वथा सर्वात्मना एषैव स्थितिः? आहोस्वित् क्वचिदन्यत्र एकस्याः क्रमस्थितेः अन्यायां प्रवेशः शक्यः? तदर्थं श्लिष्टं नाम किं? कुतः कदा च स विचारः समञ्जस इति विवृणुमः ।
इह शास्त्रे श्लिष्टं नाम मिथः निर्भराणां वस्तूनां सुसङ्गत यूथीकरणम्। अत्र लघु श्लिष्टानि यथा गृहेषूपयुज्यमान जलस्तर-नियन्त्रकम्, वायुयान-मनुष्यशरीर-नगरादीनि बृहच्छ्लिष्टानि ज्ञायेत । तत्र संवृतश्लिष्टानि, विवृतश्लिष्टानीत्यपि द्विधा । अन्यच्च, श्लिष्टपरिधिरप्यवगन्तव्या । श्लिष्टस्य इयत्ता विषयक ज्ञानमेव श्लिष्टपरिधिः । श्लिष्टपरिधिं चतुरस्राकारेण चित्रेण, किमप्याकारान्तरेण वा सूचयामः।
इतः परं अग्रिमे निवेशे तापगतिशास्त्रविरुद्धमिव भासन्तं मस्तिष्कश्लिष्टमधिकृत्य नोबेल्-पुरस्कारविजेतुः इल्या-प्रोगोझीन् महोदयस्य सचेतन श्लिष्टानां वर्तनमाविष्कुर्मः।
Subscribe to:
Post Comments (Atom)
Glossary of Technical Terms
ReplyDeleteबलम् = Force
कर्म = Work
शक्ति = Power
ऊर्जा = Energy
तापः = Heat
तापमानम् = Temperature
तापगतिशास्त्रम् = Thermodynamics
क्रकचम् = saw
महाक्रकचम् = hacksaw
स्थानान्तरणम् = displacement
दूरम् = distance
सङ्कोचनयन्त्रम् = compressor
जलस्तरनियन्त्रकम् = water level controller
श्लिष्टपरिधिः =
I ha taken a second look at what I had published earlier. A respectable swamiji had kindly taken a look at my very first blog tittled IshavandanA and pointed out certain errors. That prompted m to revise some of these older blogs. I am very thankful to the yati.
ReplyDeleteGlossary of Technical Terms
ReplyDeleteबलम् = Force
कर्म = Work
ऊर्जः = Power
शक्ति: = Energy
तापः = Heat
तापमानम् = Temperature
तापगतिशास्त्रम् = Thermodynamics
क्रकचम् = saw
महाक्रकचम् = hacksaw
स्थानान्तरणम् = displacement
दूरम् = distance
सङ्कोचनयन्त्रम् = compressor
जलस्तरनियन्त्रकम् = water level controller
श्लिष्टपरिधिः = System Boundary
केवलं व्याकरणविषयकाः सूचनाः क्रियन्ते। दोषे सति क्षम्यास्म्यहम्। त्रुटयः क्षुल्लकाः एव। प्रायः अनवधानेनैव जाताः दृश्यन्ते न तु अज्ञानेन। ’अस्मिन् लेखे’ इत्यारभ्य क्रमशः -
ReplyDelete’भौतशास्त्रविषयः’ इति समस्तपदम्।
’भौतशास्त्र-विषयत्वेन’ इति समस्तपदमेव।
’तद्विषयकं बोधम्’ इति ’तद्विषयक-बोधम्’ इति वा। तस्मिन्नेव वाक्ये अग्रे ’इव’ उत ’एव’? ’एव’ भवेदिति मन्ये। असति शक्ति-तापयोः सम्बन्धेऽपि तादृशमविद्यमानं बोधं संस्थापयितुम् सिद्धान्तः कृतः इति खलु ’इव’ सूचयति?
’साङ्केतिकानि’ इति। अथवा समस्तपदम्।
भौत-शास्त्रेति पुनः समस्तपदम्।
’यदि’-प्रयोगे कृते ’तर्हि’-प्रयोगः अवश्यम्भावि। तस्मात् ’यदि स्थित्यन्तरप्राप्तिर्भवति तर्हि तत्कर्म’ इति। नो चेत् ’यदि’प्रयोगस्य स्थाने ’यत्र’प्रयोगः शक्यते। यत्र-प्रयोगेन सह तत्र-प्रयोगस्य न कापि प्रसक्तिः।
विश्रामस्थितिरिति समस्तपदम्।
स्थितिपरिवर्तनमिति समस्तपदम्।
तथाहीति नैव समस्तपदम्। ’तथा हि’ इत्येव।
पुनश्च यदि-प्रयोगः तर्हि-प्रयोगेन विनैव कृतः। तस्मिन् वाक्ये यदि-शब्दस्य न कापि प्रसक्तिरिति मन्ये। तेन विनापि वाक्यं पूर्णमेव तिष्ठति सार्थं च।
भौतशास्त्रदृष्ट्या समस्तपदम्।
भौतशास्त्ररीत्या समस्तपदम्।
तापाख्यशक्तिरिति समस्तपदम्। व्यस्ते कृते तापाख्या शक्तिरिति। तापाख्याशक्तिः इति समस्तपदं शुद्धं वेति मे संशयः।
कर्मरूपे समस्तपदम्। तत्रापि सप्तमीप्रयोगः अप्रासङ्गिकः। कर्मरूपेणेति तृतीयया प्रसज्यते।
तापरूपमिति समस्तम्।
यान्त्रिककर्मेति समस्तम्।
तापरूपेणेति। समस्तपदत्वं च तृतीयाप्रसक्तिश्च।
नीचतरायाः इति षष्ठी विशेषण-विशेष्य-भावात्।
द्वितीयसूत्रस्येति समस्तम्।
उच्चतर-तापस्थिताविति समस्तम् अथवा उच्चतरायामिति सप्तमी।
प्रापयितुमित्यत्र मकारः न तु अनुस्वारः।
अन्तिमवाक्यं क्लिष्टतरमिति नावगतम्। कृपया विव्रीयताम्।
परन्तु इत्यत्र अनुस्वारश्च नकारश्च उभे नावश्यके। नकारः श्रेयः।
नैवानेतुमिति नैवाऽनेतुमिति वा।
सर्वात्मना? नावगतम्। सर्वेषाम् आत्मनः इति वा वक्तव्यम्?
किमित्यत्र मकारः श्रेयः।
सुसङ्गतमिति। अथवा समस्तपदम्।
लघूनि श्लिष्टानीति। अथवा समस्तपदम्।
उपयुज्यमानमिति वा समस्तपदं वा।
ज्ञायेरन्निति।
इयत्ता-विषयक-ज्ञानमिति समस्तम्। अथवा इयत्ताविषयकम् इति वा समस्तपदम्। इयत्तायाः विषयकम् इति वा।
सचेतनश्लिष्टानामिति समस्तम्।
इति शम्।
kenaapyaakaarantareNa iti cha|
ReplyDeleteभवत्या यत्र यत्र समस्तपदानीति दर्शितानि तत्र तत्र समीकरिष्यन्ते, अवकाशे प्राप्ते। धन्यवादाः। तथाहि इति एकशब्दात्मकता प्रथते। द्र० व्याकरणसिद्धान्त कौमुद्यां बालमनोरमा व्याख्यायां बहुत्र।सत्यम्। तस्मिन् वाक्ये ’यदि’ इत्यस्य आवश्यकतैव नास्ति। सर्वात्मना इति मम गुरुचरणाः प्रायुञ्जत।शिष्टप्रयोगशरण्यत्वाद्व्यारणशास्त्र्स्य, एतच्छ्ब्दस्य साधुत्वमङ्गीकृतम्।अनुवर्तते-
ReplyDelete