Monday, April 5, 2010

मस्तिष्कविषये वक्तव्यम्.. भागः -१

इदमिदानीमेव अहमेकं ग्रन्थं पठितवान् । तथा तु स च ग्रन्थः १९८६तमे वर्ष Ballantyne Books इत्याख्यैः प्रकाशकैः कर्गदावरणेन मुद्रापितोऽस्माकं संस्थया क्रीतश्च। पुरा मयैकवारं पठितोऽपि। तथापि साम्प्रतिके पठने अस्ति कश्चिद्विशेषः। तस्य आङ्ग्लमयात्मक ग्रन्थस्य नाम- MEGABRAIN इति।ग्रन्थकर्तुः नाम च MICHAEL HUTCHISON इति।
अस्मिन् वक्तव्ये एतस्माद्ग्रन्थात्, पाश्चात्यानां मस्तिष्कविषयक अवगमनं, प्राच्यानां च का दृष्टिरिति तुलनात्मकमध्ययनं कुर्मः ।

मस्तिष्कं(’ब्रेन्’ इत्याङ्गल्याम्) नाम उत्तमाङ्ग इति च गैर्वाण्यां-- यमधिकृत्य लिख्यत इदानीम् ।
बहोः कालात्पूर्वं प्रकाशितश्चाऽयं ग्रन्थः मानव-मस्तिष्कस्य कल्पनातीतां ग्रहणशक्तिं, तद्वर्धनोपायानां,तेषु च विशेषेण तदर्थं विद्युद्यन्त्राणां चोल्लेखनात्मकश्च। वैज्ञानिक दृष्ट्या मस्तिष्कञ्च कियच्छक्तिमत्, तस्य ग्रहणशक्तिवर्धनोपकरणानि कानिचन, तैर्मानसिक विकासश्चेत्यादीन्विषयानधिकृत्य लिख्यते ।

पूर्णस्यास्य ग्रन्थस्यानुवादो नोद्दिष्टः। तत्र तत्र रोचका विषया प्रतिपादिताः। तानेवात्र पुनश्चरामः। सारतः मानवमस्तिष्कविषये वैज्ञानिकानां मतमेवंविधाः --

१. मस्तिष्कवृद्धिः

महताकालेन वैज्ञानिका आमनन्ति स्म- मस्तिष्कस्य भौत परिमाणं - तस्य भारः, मस्तिष्ककणानां सङ्ख्या, तस्योपरितलस्थौल्यमित्यादयः आनुवंशिकाः। किन्तु सप्तत्यशीतितमेषु दशकेषु कृतानां प्रयोगानां परिणामतः मस्तिष्कस्य सर्वतोमुखवृद्धिः साध्या,तत्प्रचोदकपरिसरस्य सृजनेनेति ज्ञायते|

२. मस्तिष्क वृद्धौ वयसः प्रभावः

एवमपि वैज्ञानिकानां मतिरासीत् - प्राप्ते तु षोडशे वयसि, मस्तिष्कवृद्धिर्न केवलं रुन्ध्यात्,प्रत्युत तत आरभ्य मस्तिष्कस्थ स्नायुकणानां केवलं क्षतिरेव न तु वृद्धिः कदाचिदपि भविष्यतीति! अयं स्नायुकणनाशः न पुनः परावर्त्यः, अतः वयोवृद्धानां नूत्नविषयशिक्षणे भवति महान् क्लेशः, न च ते पठितं शिक्षितं वाऽपि बहुकालं स्मरन्ति, स्मरणं तु दूरे तिष्ठतु, शिक्षितुमपि ते न पारयन्तीति स्थितिः। नवीनगवेषणफलं त्वेवं - शिक्षणे न वयोमितिः, वर्तन्ते मार्गान्तराणि मस्तिष्कवर्धनाय, मनीषाभिवृद्ध्यै, कस्मिंश्चिदपि वयसि- सप्तति-अशीति-नवति वा भवतु कामं कस्यचिज्जनस्य वयः।

३.मस्तिष्क पुनर्निमितिः

एवञ्च मतिरासीद्वैज्ञानिकेषु-यथा मनुष्यशरीरस्थानां अन्यानां कणानां तु पुनिर्मितिर्भवति, तथा न मस्तिष्कस्थ स्नायुकणानाम्। तत्र तु यावन्ति कणानि शिशोः वर्षद्वये अतीते भवन्ति, तावन्त्येव स्थीयन्ते।
ततः परं तेषां विनाश एव सिद्ध्यति गच्छता कालेन बहुभिः स्वकीयमस्तिष्कस्य पूर्णशक्तेः अनुपयोगाच्च । अशीतिषु कृतैः प्रयोगैस्स्थितं - वर्धन्ते तान्यपि, दत्तसमुचितस्पन्दनानीति। यथा चर्मणि कणान्युपजायन्ते तथैव मस्तिष्केऽपि!

४. मस्तिष्कसमसामयिकीकरणम्

शस्त्रचिकित्सादिभिः मनुष्यशरीररचनामधीयानाः मनुष्य मस्तिष्कस्य द्विखण्डात्मकतां प्रत्यपादयन्, अदर्शयन् च। वाममस्तिष्कस्य युक्तिमयो व्यवहारः, भाषाज्ञानं, तर्कमूलज्ञानं च, दक्षिणमस्तिष्कस्य कला, भावनात्मकता, अन्तदृष्ट्यादयो गुणाः इति प्रतिज्ञातम् । येनकेनापि, व्यवहारेषु तदनुगुणमस्तिष्कस्यैव उपयोगः भवति। गणितशास्त्राद्ध्येतॄणां तस्मिन्समये वामार्धमस्तिष्कभागे भवन्ति महत्यः प्रक्रियाः, दक्षिणार्धश्च तिष्ठति तूष्णीम् । यदा सैव व्यक्तिरभ्यस्यति सङ्गीतशास्त्रं तदा भवति दक्षिणार्धे महान् कोलाहलः ! कश्चिद्धीर एव पूर्णस्याऽपि[वामार्ध-दक्षिणार्ध भागयॊः]मस्तिष्कं समकाले कार्येषु नियोक्तुं शक्नोति। स च धारणाध्यानादि योगाभ्यासेषु प्रवृत्त एव।

५. विद्युद्रसायनमूलं हि मस्तिष्कम्

वैज्ञानिकाः याकाऽपि मानसीस्थितिः कल्प्यते सा च मस्तिष्के सुनिश्चित रासायनिक-क्रियाभिः विद्युत्क्रियाभिश्चेवेत्युद्घोषयन्ति । मस्तिष्कक्रियाः शब्दैः , चञ्चद्रोचिभिः, परिवर्तिभिः विद्युच्चुम्बकीयक्षेत्रबलैः, अङ्गाङ्गचलनैः इत्येवंविधै: बाह्यप्रचोदनै: परिवर्तयितुं शक्याः। यन्त्रसाहाय्येनैतानि स्पन्दनानि मस्तिष्कस्य यथेष्टं भागं प्रापयित्वा तैः इष्टाः मस्तिष्कस्थितयश्चऽऽनेतुं शक्यम् । तथाहि एतेषां यन्त्राणां साहाय्येन आनन्दानुभवः, पूर्वानुभवानां पुनश्चरणं, दिवास्वप्निकाः, निर्दिष्टस्मृतयः, कामाभिभूतत्वं, गभीरैकाग्रता, परिवर्धितसृजनात्मकता इत्यादयः मानसिकस्थितयः परिकल्प्यन्ते ।

६. मस्तिष्कस्यात्मनियन्त्रणम्

बहोः कालाद्वैज्ञानिकाः मस्तिष्कक्रिया:- तन्नाम मस्तिष्के विद्युत्क्रियाः, रसायनस्रवाः वा- शरीरस्थ अन्य स्नायुमण्डलानीव स्वनियन्त्रण बाह्याः स्युरिति व्यचारयन्। षष्टितमेषु दशकेषु , जीवप्रतिनिपोषणेन शरीरस्थस्य यस्यकस्याऽप्यङ्गीभूतस्य भौतश्लिष्टस्य स्वप्रयत्नेनैव नियन्त्रणं मानवैस्साध्यमिति प्रतिज्ञातम्।
जीवप्रतिनिपोषण साहाय्येन वयं झटिति अस्माकं रक्तचाप-हृत्स्पन्दन-जीवरसायनानामपि, यानि चाप्रयत्नमेव परिनिष्ठिते मूल्याङ्केषु तिष्ठन्तीति शरीररचनाशास्त्राज्जानीमः, नियन्त्रयितुं शक्नुमः। साम्प्रतिक प्रोद्यौगिकाभिवृद्धयः सुसूक्ष्म-सुकुमार-यन्त्राणां निर्मितिभिरस्माकं शरीरे जायमानानां मानसिकस्थितीनामवेक्षणप्रतिनिपोषणसामर्थ्यं मनुष्यहस्तेषूपस्थापितवन्त्यः। मस्तिष्कक्रियाः याश्च विद्युन्मूलाः ताः गृहीत्वा अस्माकमिन्द्रियग्राह्यरूपेण आलिख्य एतानि यन्त्राणि उपयोक्तॄन् स्वमस्तिष्कस्थितीः बोद्धुं, तेन च यथेष्टं तथा ता: नियन्त्रयितुं सहकुर्वन्ति। वस्तुत एवङ्कुर्वन्कोऽपि आत्मनः विचारान्, भावानाश्च परिवर्तयितुं,नियन्त्रयितुं वा पारयति।

७. मस्तिष्कं अतिशिक्षणं च

नूत्नगवॆषणैर्ज्ञायते यन्मस्तिष्कस्य शिक्षण-स्मरण-सृजनशक्तयश्चाऽपाराः । दत्तसमुचितपरिसराः मनुष्याः कल्पनातीतान् विषयांच्छिक्षितुं, मतावस्थापयितुं, तान्पुनर्निष्काषयितुमपि समर्थाः, वयोमितिमप्यतिक्राम्येति स्थितिः।

2 comments:

  1. As declared at the head of this blog, this is an attempt to translate some useful portions of the book mentioned for the benefit of pure Sanskrit students groomed only in Sanskrit poetics epistemology etc.,The purpose is to show the contemporary preparedness of this great language. I have tried to mimic the shastric style of expression which celebrates brevity of expression much to the chagrin of modern educators and the generally followed expression style of modern textbook writers in English and other languages. Comments of readers are very much welcome.

    ReplyDelete
  2. Glossary or Technical terms used/coined.
    स्नायुकणः = nerve cell; neuron
    पुनर्निर्मितिः = reconstruction
    समसामयिकीकरणम् = synchronization
    चञ्चद्रोचिः = psychedelic lights
    दिवास्वप्निकाः = reveries
    निर्दिष्टस्मृतयः = specific memories
    कामाभिभूतत्वं = sexual excitement
    जीवप्रतिनिपोषण = bio-feedback
    श्लिष्टम् = system
    सुसूक्ष्म-सुकुमार-यन्त्रा: = sensitive- and delicate machines
    अतिशिक्षणं = super-learning

    ReplyDelete